Sanskrit is "Education for life" Every bit of Sanskrit teaches us values in life.Let's see,How?" श्लो॥ अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च। पुरुषविशेषं प्राप्य हि भवन्ति योग्या अयोग्याश्च॥ (अर्थः) अश्वस्य योग्यता तन्निर्वाहकाधीना।शस्त्रस्य नैपुण्यं तत्प्रयोजकाधीनम्।शास्त्रं तदुपयोक्त्रधीनम्।वीणा भाषयितुरधीना। नरः नार्यधीनः।नारी नराधीना।अत्र सर्वाणि पूर्वोक्तानि तन्निर्वाहकस्य चातुर्येण योग्यानि वा अयोग्यानि वा भवन्ति। अतः योग्यता वा अयोग्यता वा पारस्परिकीति ज्ञायते।
Sanskrit is "Education for life"
రిప్లయితొలగించండిEvery bit of Sanskrit teaches us values in life.Let's see,How?"
श्लो॥ अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च।
पुरुषविशेषं प्राप्य हि भवन्ति योग्या अयोग्याश्च॥
(अर्थः) अश्वस्य योग्यता तन्निर्वाहकाधीना।शस्त्रस्य नैपुण्यं तत्प्रयोजकाधीनम्।शास्त्रं तदुपयोक्त्रधीनम्।वीणा भाषयितुरधीना। नरः नार्यधीनः।नारी नराधीना।अत्र सर्वाणि पूर्वोक्तानि तन्निर्वाहकस्य चातुर्येण योग्यानि वा अयोग्यानि वा भवन्ति।
अतः योग्यता वा अयोग्यता वा पारस्परिकीति ज्ञायते।
Remedies for the poison in sanskrit----"अङ्कोलतैलं--तस्य उपयोगाः"
రిప్లయితొలగించండిमूषिकशुनकादीनां विषस्य हरणं यथा----अङ्कोलबीजचूर्णं तिलतैलेन भावयित्वा
तीक्ष्णातपे शोषयित्वा पुनः पेषणमितिरीत्या सप्त दिनानि तैलकारयन्त्रे भावयित्वा
तस्मात् तैलं ग्राहयेत्।
अङ्कोलतैलेन लिप्तञ्चेत् विषदिग्धस्थलं विषमन्तर्हितम्भवति।
प्रयोजनान्तराणि यथा---१.मुण्डितं शिरः अङ्कोलतैलेन लिप्तञ्चेत् तत् क्षणात् केशपूर्णं भवति।२.अङ्कोलतैलेन स्थलजानि वा जलजानि वा बीजानि लिप्तानि चेत् तानि सद्यः प्ररोहन्ति।३.धातु,मूल,पत्र,फल,पुष्पादिकं लिप्तञ्चेत् अन्यरूपं भवति।४.पद्मोत्पलबीजादिकं चूर्णितं सत् जले न्यस्य सिक्तञ्चेत् सद्यः पद्मोत्पलादिरूपं भवतीति कौतुकविद्यानिष्ठाः वृक्षवैचित्र्यवादिनः वदन्ति।(पश्यन्तु--अकाराकारशब्दार्थसर्वस्वम्---संस्कृते---रचयिता--परवस्तु रङ्गाचार्यस्वामिनः)